Shanti Mantra
शान्ति-मन्त्राः
शान्ति-मन्त्राः
शान्ति-मन्त्राः
ऋग्वेदः
ॐ वाङ् मे॒ मन॑सि॒ प्रति॑ष्ठिता॒। मनो॑ मे॒ वाचि॒ प्रति॑ष्ठितमा॒विरा॒विर्म॑ एधि । वे॒दस्य म॒ आणी᳚स्थः । श्रु॒तं मे॒ मा प्रहा॑सीर॒नेना॒धीते॑नाहोरा॒त्रान्सन्द॑धामि। ऋ॒तं व॑दिष्यामि। स॑त्यं व॑दिष्यामि॒। तन्माम॑वतु॒। तद्व॒क्तार॑मव॒तु । अव॑तु॒ माम् । अव॑तु व॒क्तार॒म् । अव॑तु व॒क्तारम्᳚ । ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
ॐ मे वाङ् मनसि प्रतिष्ठिता। मे मनः वाचि प्रतिष्ठितम्। आविः मे आविः एधि । वेदस्य आणीस्थः मे (आविः एधि) । श्रुतं मे मा प्रहासीः। (अहम्) अहोरात्रान् अनेन अधीतेन सन्दधामि । (अहम्) ऋतं वदिष्यामि । (अहम्) सत्यं वदिष्यामि । तत् माम् अवतु । तत् वक्तारम् अवतु । माम् अवतु । वक्तारम् अवतु । वक्तारम् अवतु । ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ वाक् = speech, मे = my, मनसि = in mind, प्रतिष्ठिता = established, मनः = mind, मे = my, वाचि = in speech, प्रतिष्ठितम् established, आविः = Brahman, आविः = revealed, मे = to me, एधि = may you be, वेदस्य = of Vedas, मे = to me, आणीस्थः = the central message (आणीस्थः is a part that is established in the pin of an axle of the cart about which the wheel rotates), श्रुतं = heard, मे = me, मा = not, प्रहासीः = abandon, अनेन अधीतेन = by this that has been studied, अहोरात्रान् = day and night, सन्दधामि = I unite, ऋतं = truth, वदिष्यामि = I will speak, सत्यं = truth, वदिष्यामि = I will speak, तत् = that, माम् = me, अवतु = protect, तत् = that, वक्तारम् = teacher, अवतु = protect, अवतु = protect, माम् = me, अवतु = protect, वक्तारम् = teacher, अवतु = protect, वक्तारम् = teacher, ॐ = OM, शान्तिः = Peace, शान्तिः = Peace, शान्तिः = Peace
May my speech be established in (my) mind. May my mind be established in (my) speech. May you Brahman be revealed to me. (May) the central message of the vedas (be revealed) to me. May that which has been heard be not abandoned by me. May I unite day and night by this that has been studied. May I speak the (scriptural) truth. May I speak the (experiential) truth. May that protect me. May that protect the teacher. Protect me. Protect the teacher. Protect the teacher. OM Peace1! Peace2! Peace3!
1आधिदैविक - obstacles from natural calamities
2आधिभौतिक - obstacles from surroundings - creatures and community
3आध्यात्मिक - obstacles from our own embodiment - body, mind, etc.
वाक् – वाच्, स्त्री, प्र, एक
मे – अस्मद्, ष, एक
मनसि – मनस्, नपुं, स, एक
प्रतिष्ठिता – प्रतिष्ठिता, स्त्री, प्र, एक, कृदन्तरूपाणि - प्रति + स्था + क्त - ष्ठा गतिनिवृत्तौ - भ्वादिः - अनिट्
मनः – मनस्, नपुं, प्र, एक
मे – अस्मद्, ष, एक
वाचि – वाच्, स्त्री, स, एक
प्रतिष्ठितम् – प्रतिष्ठित, नपुं, प्र, एक, कृदन्तरूपाणि - प्रति + स्था + क्त - ष्ठा गतिनिवृत्तौ - भ्वादिः - अनिट्
आविः – अव्ययम्
आविः – अव्ययम्
मे – अस्मद्, ष, एक
एधि – अस् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - असँ भुवि - अदादिः, म-पु, एक
वेदस्य – वेद, पुं, ष, एक
मे – अस्मद्, ष, एक
आणीस्थः –
श्रुतम् – श्रुत, नपुं, प्र, एक, कृदन्तरूपाणि - श्रु + क्त - श्रु श्रवणे - भ्वादिः - अनिट्
मे – अस्मद्, ष, एक
मा – अव्ययम् (निषेधार्थे)
प्रहासीः (प्राहासीः) – प्र + हा धातुरूपाणि - कर्तरि प्रयोगः परस्मै पदम् - ओँहाक् त्यागे - जुहोत्यादिः, म-पु, एक
अनेन – इदम्, तृ, एक
अधीतेन – अधीत, पुं, तृ, एक
अहोरात्रान् – अहोरात्र, पुं, द्वि, बहु
सन्दधामि – सम् + धा धातुरूपाणि - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - डुधाञ् धारणपोषणयोः दान इत्यप्येके - जुहोत्यादिः, उ-पु, एक
ऋतम् – ऋत, नपुं, द्वि, एक
वदिष्यामि – वद् धातुरूपाणि - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - वदँ व्यक्तायां वाचि - भ्वादिः, उ-पु, एक
सत्यम् – सत्य, नपुं, द्वि, एक
वदिष्यामि – वद् धातुरूपाणि - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - वदँ व्यक्तायां वाचि - भ्वादिः, उ-पु, एक
तत् – तद्, नपुं, प्र, एक
माम् – अस्मद्, द्वि, एक
अवतु – अव् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - अवँ रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्चादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु| - भ्वादिः - प्र-पु, एक
तत् – तद्, नपुं, प्र, एक
वक्तारम् – वक्तृ, पुं, द्वि, एक
अवतु – अव् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - अवँ रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्चादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु| - भ्वादिः - प्र-पु, एक
अवतु – अव् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - अवँ रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्चादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु| - भ्वादिः - प्र-पु, एक
माम् – अस्मद्, द्वि, एक
अवतु – अव् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - अवँ रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्चादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु| - भ्वादिः - प्र-पु, एक
वक्तारम् – वक्तृ, पुं, द्वि, एक
अवतु – अव् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - अवँ रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्चादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु| - भ्वादिः - प्र-पु, एक
वक्तारम् – वक्तृ, पुं, द्वि, एक
कृष्णयजुर्वेदः
ॐ स॒ह ना॑ववतु। स॒ह नौ॑ भुनक्तु। स॒ह वी॒र्यं॑ करवावहै। ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै॑॑॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥
ॐ (सः) नौ सह अवतु। (सः) नौ सह भुनक्तु। (आवाम्) सह वीर्यम् करवावहै। नौ अधीतम् तेजस्वि अस्तु। (आवाम्) मा विद्विषावहै॥ ॐ शान्तिः शान्तिः शान्तिः॥
ॐ सह = together, नौ = both of us, अवतु = may protect, सह = together, नौ = both of us, भुनक्तु = nourish, सह = together, वीर्यम् = capacity (to transform), करवावहै = we both do, तेजस्वि = shine, नौ = both, अधीतम् = studied, अस्तु = may be, मा = not, विद्विषावहै = may hate, ॐ शान्तिः शान्तिः शान्तिः = OM peace, peace, peace
May (He) protect (the attitude for learning in) both of us together. May (He) nourish (the capacity to study in) both of us together. May (we both) together attain the capacity (to transform). May that which has been studied shine both of us (be applied in life). May (we both) not hate each other. OM Peace! Peace! Peace!
सह – अव्ययम्
नौ – अस्मद्, द्वि, द्वि
अवतु – अव् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - अवँ रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्चादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु| - भ्वादिः - प्र-पु, एक
सह – अव्ययम्
नौ – अस्मद्, द्वि, द्वि
भुनक्तु – भुज् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - भुजँ पालनाभ्यवहारयोः - रुधादिः, प्र-पु, एक
सह – अव्ययम्
वीर्यम् – वीर्य, नपुं, द्वि, एक
करवावहै – कृ धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - डुकृञ् करणे - तनादिः, उ-पु, द्वि
तेजस्वि – तेजस्विन्, नपुं, प्र, एक
नौ – अस्मद्, द्वि, एक
अधीतम् – अधीत, नपुं, प्र, एक
अस्तु – अस् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - असँ भुवि - अदादिः, प्र-पु, एक
मा – अव्ययम् (निषेधार्थे)
विद्वेषावहै (विद्विषावहै) – वि + द्विष् धातुरूपाणि - लोट् लकारः - द्विषँ अप्रीतौ - अदादिः, उ-पु, द्वि
Notes:
(सः) नौ सह अवतु May (He) protect both of us together - Let the attitude of the student to learn and the attitude of teacher to teach be maintained.
(सः) नौ सह भुनक्तु May (He) nourish both of us together - Let the capacity of the student to learn and the capacity of teacher to teach be enhanced.
(आवाम्) सह वीर्यम् करवावहै May (we both) together attain the capacity (to transform) - whatever has been learnt and taught let us have the capability to implement in life.
अधीतम् तेजस्वि नौ अस्तु May our studies shine (be applied in life) - may we actually apply what that capability to implement we learnt and taught in life - capacity to transform is actualised.
(आवाम्) मा विद्विषावहै May (we both) not hate each other - When two people together there is a chance to hate each other: hatred from student - teacher scolding student even for a reason, using examples that student does not like due to preconceived notions, etc. and hatred from teacher - student not paying attention, student not disciplined, etc.
शुक्लयजुर्वेदः
ॐ पूर्ण॒मदः॒ पूर्ण॒मिदं॒ पूर्णा॒त्पूर्ण॒मुद॒च्यते। पूर्ण॒स्य पूर्ण॒मादा॒य पूर्ण॒मेवावशि॒ष्यते॥ ॐ शा॒न्तिः शा॒न्तिः शा॒न्तिः॥
ॐ अदः (ब्रह्म) पूर्णम् (अस्ति)। इदम् (जगत्) पूर्णम् (अस्ति)। पूर्णात् (ब्रह्मणः) पूर्णम् (जगत्) उदच्यते। पूर्णम् (जगत्) आदाय पूर्णस्य (ब्रह्मणः) पूर्णम् एव अवशिष्यते॥ ॐ शान्तिः शान्तिः शान्तिः॥
ॐ पूर्णम् = infinite, अदः = that (Brahman), पूर्णम् = infinite, इदं = this (all manifested), पूर्णात् = from (that) infinite, पूर्णम् = (this) infinite, उदच्यते = appeared (seemingly), पूर्णस्य = of the infinite, पूर्णम् = the infinite, आदाय = having negated, पूर्णम् एव = the infinite, अवशिष्यते = अनुभूयते = remains (is experienced as I)
That is infinite. This is infinite. From (that) infinite (Brahman), (this) infinite (variety of manifestation of names and forms) appeared (seemingly). From the infinite (variety of manifestation of names and forms) having negated the infinite (variety of names and forms), the infinite (Brahman) alone remains (which is experienced as I). OM Peace! Peace! Peace!
पूर्णम् – पूर्ण, नपुं, प्र, एक
अदः – अदस्, नपुं, प्र, एक
पूर्णम् – पूर्ण, नपुं, प्र, एक
इदम् – इदम्, नपुं, प्र, एक
पूर्णात् – पूर्ण, नपुं, पं, एक
पूर्णम् – पूर्ण, नपुं, प्र, एक
उदच्यते – आङ् + दै धातुरूपाणि - दैप् शोधने - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्, प्र-पु, एक
पूर्णस्य – पूर्ण, नपुं, ष, एक
पूर्णम् – पूर्ण, नपुं, द्वि, एक
आदाय – अव्ययम्, कृदन्तरूपाणि - आङ् + दै + ल्यप् - दैप् शोधने - भ्वादिः - अनिट्
पूर्णम् – पूर्ण, नपुं, प्र, एक
एव – अव्ययम्
अवशिष्यते – अव + शिष् धातुरूपाणि - शिषँ असर्वोपयोगे - चुरादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्, प्र-पु, एक
Notes:
अदः (ब्रह्म) पूर्णम् (अस्ति) that is infinite - infinitude is without limitations of space, time and objects (desha-kala-vastu-aparichinna) - therefore it is Existence, Sat. It is infinite due to being pure awareness - Consciousness, Chit. It is infinite as bliss - Ananda.
इदम् (जगत्) पूर्णम् (अस्ति) this is infinite - all jagat (from Maya onwards) as totality appears to be infinite in scope because of its substratum as Brahman and appears to be infinite in variety because of infinite possibilities of combinations of gunas (Maya effect) that constitute the jagat.
पूर्णात् (ब्रह्मणः) पूर्णम् (जगत्) उदच्यते from that infinite Brahman, all the infinite manifestations have come - all this jagat, infinite manifestation, have seemingly come from that infinite Brahman. There is no creation of jagat involving transformation, but it is only an appearance on the substratum Brahman.
पूर्णम् (जगत्) आदाय पूर्णस्य (ब्रह्मणः) पूर्णम् एव अवशिष्यते having negated the seemingly infinite jagat - superimpositon of names and forms - the infinite (Brahman) alone remains (is experienced as I). This is elaboration of brahma-atma-aikya or jiva-ishvara-aikya or tat-tvam-asi or aham-brahma-asmi.
This mantra covers the movement from ajnana to jnana: begins with the state of ajnana where the awareness is "this" (all perceived) and "that" (God/Reality not one's experience), the sadhana of negation and the sadhya or attainment of jnana as realisation that the underlying Reality is substratum of all that is manifested and it is I.
सामवेदः
ॐ आप्या॑यन्तु म॑माङ्गा॒नि वाक्प्रा॒णश्च॒क्षुः श्रो॒त्रम॑थो बलमि॒न्द्रियाणि॑ च स॒र्वाणि॑। स॒र्वं᳚ ब्रह्मौप॒निष॑दं माऽहं ब्र॑ह्म निरा॑कुर्यां॒ मा मा ब्र॑ह्म निरा॑करो॒दनिरा॑करणमस्त्व॒निरा॑करणं मेऽस्तु॒। तदा᳚त्मनि निर॑ते य॒ उप॑निषत्सु ध॒र्मास्ते॑ मयि॑ सन्तु॒ ते मयि॑ सन्तु। ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥
ॐ मम अङ्गानि आप्यायन्तु। अथः वाक् प्राणः चक्षुः श्रोत्रम् बलम् इन्द्रियाणि च सर्वाणि (आप्यायन्तु)। सर्वम् ब्रह्मौपनिषदम् (अस्ति)। अहम् मा ब्रह्म निराकुर्याम्। ब्रह्म मा मा निराकरोत्। अनिराकरणम् अस्तु । मे अनिराकरणम् अस्तु। ये उपनिषत्सु धर्माः तत् आत्मनि निरते ते मयि सन्तु ते मयि सन्तु। ॐ शान्तिः शान्तिः शान्तिः॥
ॐ आप्यायन्तु = may grow vigorously/be healthy, मम = my, अङ्गानि = limbs/parts of body, वाक् = speech, प्राणः = life-force, चक्षुः = eyes, श्रोत्रम् = ears, अथ उ = also, बलम् = strength, इन्द्रियाणि च सर्वाणि = and all sense and motor organs, सर्वं = all that is, ब्रह्मौपनिषदं = Brahman that is in Upanishad, मा = not, अहम् = I, ब्रह्म = Brahman, निराकुर्यां = may reject, मा = not, मा (माम्)= me, ब्रह्म निराकरोत् = may Brahman (Saguna) reject, अनिराकरणम् = may non-denial, अस्तु = be, अनिराकरणम् मे अस्तु = may there be non-denial of me, तदात्मनि निरते = while delighting in the Self, ये = those which, उपनिषत्सु = in Upanishads, धर्माः = virtues, ते = they, मयि = in me, सन्तु = may be, ते मयि सन्तु = may they be in me, ॐ शान्तिः शान्तिः शान्तिः = OM peace, peace, peace
May my limbs be healthy. And also speech (कर्मेन्द्रियाणि), prana, eyes and ears (ज्ञानेन्द्रियाणि), strength, all (other) sense and motor organs be healthy. All is Brahman described in Upanishads. May I not reject Brahman described in the Upanishads. May Brahman (Saguna, the Lord) never reject me. May there be non-denial (of Brahman). May there be non-denial of me. Those virtues which are in Upanishads, may they be in me who am devoted to Self-Knowledge. OM Peace, Peace, Peace.
आप्यायन्तु –
मम – अस्मद्, षष्ठी, एक
अङ्गानि – अङ्ग, नपुं, प्र, बहु
वाक् – वाच्, स्त्री, प्र, एक
प्राणः – प्राण, पुं, प्र, एक
चक्षुः – चक्षुस्, नपुं, प्र, एक
श्रोत्रम् – श्रोत्र, नपुं, प्र, एक
अथ – अव्ययम्
उ – अव्ययम्
बलम् – बल, नपुं, प्र, एक
इन्द्रियाणि – इन्द्रिय, नपुं, प्र, बहु
च – अव्ययम्
सर्वाणि – सर्व, नपुं, प्र, बहु
सर्वम् – सर्व, नपुं, प्र, एक
ब्रह्म – ब्रह्मन्, नपुं, प्र, एक
औपनिषदम् – औपनिषद, नपुं, प्र, एक
मा – अव्ययम् (निषेधार्थे)
अहम् – अस्मद्, प्र, एक
ब्रह्म – ब्रह्मन्, नपुं, द्वि, एक
निराकुर्याम् – निर् + आङ् + कृ धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - डुकृञ् करणे - तनादिः, उ-पु, एक
मा – अव्ययम्
मा (माम्) – अस्मद्, द्वि, एक
ब्रह्म – ब्रह्मन्, नपुं, प्र, एक
निराकरोत् – निर् + आङ् + कृ धातुरूपाणि - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - डुकृञ् करणे - तनादिः, प्र-पु, एक
अनिराकरणम् – अनिराकरण, नपुं, प्र, एक
अस्तु – अस् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - असँ भुवि - अदादिः, प्र-पु, एक
अनिराकरणम् – अनिराकरण, नपुं, प्र, एक
मे – अस्मद्, ष, एक
अस्तु – अस् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - असँ भुवि - अदादिः, प्र-पु, एक
तदा – अव्ययम्
आत्मनि – आत्मन्, पुं, स, एक
निरते – निरत, पुं, स, एक
यः – यद्, पुं, प्र, एक
उपनिषत्सु – उपनिषद्, स्त्री, स, बहु
धर्माः – धर्म, पुं, प्र, बहु
ते – तद्, पुं, प्र, बहु
मयि – अस्मद्, स, एक
सन्तु – अस् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - असँ भुवि - अदादिः, प्र-पु, बहु
ते – तद्, पुं, प्र, बहु
मयि – अस्मद्, स, एक
सन्तु – अस् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - असँ भुवि - अदादिः, प्र-पु, बहु
Notes:
मम अङ्गानि आप्यायन्तु, अथः वाक् प्राणः चक्षुः श्रोत्रम् बलम् इन्द्रियाणि च सर्वाणि (आप्यायन्तु) May my limbs be healthy. And also speech (कर्मेन्द्रियाणि), prana, eyes and ears (ज्ञानेन्द्रियाणि), strength, all (other) sense and motor organs be healthy - not for health itself, but let them be healthy so that they can be useful in sadhana for realisation of Brahman.
सर्वम् ब्रह्मौपनिषदम् (अस्ति) All is Brahman described in Upanishads - All jagat / kshetra is a superimposition and Brahman is its substratum.
अहम् मा ब्रह्म निराकुर्याम् May I not reject Brahman - may my mind not stop pursuit of Self-realisation or reject the non-dual nature of Brahman and be immersed in duality taking it to be real or worse get engulfed in worldly pursuits - this is said as rejecting Brahman (Self). This line is - mokshartham adhyatmika-pratibandha-nishedha-prarthana - a prayer for removal of obstacles for moksha from oneself.
ब्रह्म मा मा निराकरोत् May Brahman (Saguna, the Lord) never reject me - May the Lord bestow upon me the interest and capacity to dwell in the non-dual nature of Brahman as mentioned in the Upanishads. So the prayer is for Saguna Brahma to help us to transcend our dualistic Saguna nature itself. This line is - mokshartham adhidaivika-adhibhautika-pratibandha-nishedha-prarthana - a prayer for removal of obstacles for moksha from other living and cosmic beings.
अनिराकरणम् अस्तु, मे अनिराकरणम् अस्तु May there be non-denial (of Brahman), May there be non-denial of me - Reiteration of the same again.
ये उपनिषत्सु धर्माः तत् आत्मनि निरते ते मयि सन्तु ते मयि सन्तु Those virtues which are in Upanishads, may they be in me who am devoted to Self-Knowledge - may virtues like sadhana-catushtaya be enhanced and those that are contradictory to pursuit of Self-knowledge like shad-ripuh be removed
अथर्ववेदः
ॐ भ॒द्रं कर्णे॒भिः शृणु॒याम॑ देवाः। भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः। स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्ंस॑स्त॒नूभिः॑। व्यशे॑म दे॒वहि॑तं॒ यदायुः॑। स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः। स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः। स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः। स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
ॐ देवाः (वयम्) कर्णेभिः (यत्) भद्रम् (तत्) शृणुयाम। र्यजत्राः (वयम्) अक्षभिः (यत्) भद्रम् (तत्) पश्येम। (वयम्) तुष्टुवाग्ंसः स्थिरैरङ्गैः तनूभिः देवहितं यदायुः व्यशेम। इन्द्रः वृद्धश्रवाः नः स्वस्ति (दधातु)। विश्ववेदाः पूषाः नः स्वस्ति (दधातु)। अरिष्टनेमिः तार्क्ष्यः नः स्वस्ति (दधातु)। बृहस्पतिः नः स्वस्ति दधातु॥ ॐ शान्तिः शान्तिः शान्तिः ॥
भद्रम् = auspicious, कर्णेभिः = by ears, शृणुयाम = may we listen, देवाः = oh gods, भद्रम् = auspicious, पश्येम = may we see, अक्षिभिः = by eyes, र्यजत्राः = deities that protect those who perform yagas, स्थिरैरङ्गैः = by steady organs, तुष्टुवाग्ंसः = worshippers, तनूभिः = by bodies, व्यशेम = we attain, देवहितम् = allotted by gods, यदायुः = lifespan, स्वस्ति = blessings, नः = to us, इन्द्र्ः = Indra, वृद्धश्रवाः = one whose fame is ancient, स्वस्ति = blessings, नः = to us, पू॒षा = the one who nourishes all (Sun), विश्ववेदाः = the knower of all, स्वस्ति = blessings, नः = to us, तार्क्ष्यः = Garuda, अरिष्टनेमिः = one who destroys obstacles, स्वस्ति = blessings, नः = to us, बृहस्पतिः = guru of gods, दधातु = may bestow, ॐ शान्तिः शान्तिः शान्तिः = OM peace, peace, peace
O gods! May we listen with ears (that which is) auspicious. O deities that protect those who perform yagas! May we see with our eyes (that which is) auspicious. With bodies of steady organs, may we, the worshippers, attain the lifespan as allotted by gods. May Indra, whose fame is ancient, bestow blessings upon us. May Sun, who is the knower of all, bestow blessings upon us. May Garuda, who destroys the obstacles, bestow blessings upon us. May Brihaspati, bestow blessings upon us. OM Peace! Peace! Peace!
भद्रम् – भद्र, नपुं, द्वि, एक
कर्णैः (कर्णेभिः) – कर्ण, पुं, तृ, बहु
शृणुयाम – श्रु धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - श्रु श्रवणे - भ्वादिः, उ-पु, एक
देवाः – देव, पुं, प्र, बहु
भद्रम् – भद्र, नपुं, द्वि, एक
पश्येम – दृश् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - दृशिँर् प्रेक्षणे - भ्वादिः, उ-पु, बहु
अक्षिभिः (आक्षभिः) – अक्षि, नपुं, तृ, बहु
यजत्राः – यजत्र, पुं, प्र, बहु
स्थिरैः – स्थिर, नपुं, तृ, बहु
अङ्गैः – अङ्ग, नपुं, तृ, बहु
तुष्टुवांसः –
तनूभिः – तनू, स्त्री, तृ, बहु
व्यशेम –
देवहितम् – देवहित, नपुं, द्वि, एक
यत् – यद्, नपुं, द्वि, एक
आयुः – आयुस्, नपुं, प्र, एक
स्वस्ति – अव्ययम्
नः – अस्मद्, ष, बहु
इन्द्रः – इन्द्र, पुं, प्र, एक
वृद्धश्रवाः – वृद्धश्रवस्, पुं, प्र, एक
स्वस्ति – अव्ययम्
नः – अस्मद्, ष, बहु
पूषाः – पूषन्, पुं, प्र, एक
विश्ववेदाः – विश्ववेदस्, पुं, प्र, एक
स्वस्ति – अव्ययम्
नः – अस्मद्, ष, बहु
तार्क्ष्यः – तार्क्ष्य, पुं, प्र, एक
अरिष्टनेमिः – अरिष्टनेमि, पुं, प्र, एक
स्वस्ति – अव्ययम्
नः – अस्मद्, ष, बहु
बृहस्पतिः – बृहस्पति, पुं, प्र, एक
दधातु – धा धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - डुधाञ् धारणपोषणयोः दान इत्यप्येके - जुहोत्यादिः, प्र-पु, एक
Notes
भद्रं कर्णेभिः शृणुयाम देवाः — O Devas, may we hear with our ears only that which is भद्र, auspicious and elevating. Whatever protects us, whatever nourishes us inwardly, whatever refines the intellect and purifies the heart, may that alone reach us through the sense of hearing. The prayer is not merely to hear sounds, but to be blessed with the faculty to receive that which uplifts. Hearing is the primary gateway of knowledge, and therefore we seek divine grace so that what enters through the ears becomes a means of growth rather than disturbance.
भद्रं पश्येम आक्षभिः यजत्राः — May we see with our eyes only that which is auspicious. The यजत्राः, the most worshipful Devas, are those who are eternally worthy of adoration, being yajñīya by nature. They are also the true owners of the universe, for the entire cosmos has arisen from their yajñas, as taught in the Aitareya and the Puruṣa Sūkta. The world is neutral, like a mirror. As is one’s vision, so is one’s creation — यथा दृष्टिः तथा सृष्टिः. One may see goodness everywhere or ugliness everywhere. Both exist. The prayer here is not for a different world, but for सुदर्शनम्, the right vision, the capacity to see goodness. When one sees goodness, one becomes अजातशत्रुः, one without enemies. Seeing faults everywhere leads to suffering — कुदर्शनम्. Therefore, पश्येम is a prayer for the grace to behold auspiciousness in life, in people, and in circumstances.
स्थिरैः अङ्गैः तुष्टुवाग्ंसः तनूभिः — May we, with firm and healthy limbs, praise You joyfully. स्थिरैः अङ्गैः indicates strength and steadiness of the body, for without a capable body, righteous living and worship are not possible. तनूभिः is plural, indicating all the three śarīras — sthūla, sūkṣma, and kāraṇa — body, mind, and causal personality. तुष्टुवाग्ंसः expresses the desire to glorify and worship the Lord through action and conduct, just as children please their parents through good behavior. For such a life of praise and worship, purity of intention, sound mind, and healthy body are indispensable.
व्यशेम देवहितं यदायुः — May we be blessed with a long life that is देवहितम्, a life that serves the purpose of the Devas. One meaning is a life lived according to the will of the Lord. Another is a life that is beneficial and pleasing to the Devas themselves. Such a life becomes worship in action. Long life is not sought for indulgence, but so that all the four puruṣārthas may be completed in this very birth, without return. A healthy and purposeful life is necessary for this fulfillment.
A life dedicated to one’s iṣṭa–devatā gives joy to the Devas, and when the Devas are pleased, the entire universe becomes harmonious. Though it is impossible to please everyone individually, life should aim to bring maximum happiness to the maximum number of beings for the maximum time. Such a life is characterized by service, compassion, purpose, fulfillment, beauty born of renunciation rather than sensuality, and is filled with bhakti, śraddhā, viveka, and sevā. This is the spirit of श्री हरि प्रीयताम्, the touchstone of dharma — whether an action pleases the Lord or not. When one’s life is noble, people glorify Bhagavān Himself through that person.
स्वस्ति न इन्द्रो वृद्धश्रवाः — May Indra bless us with स्वस्ति, auspicious stability and well-being at every level of life. स्वस्ति means सु अस्ति, सु स्थिता, well-established harmony. वृद्धश्रवाः means ancient and ever-praised; Indra is the most anciently praised Deva in the Vedas. Another meaning is one who has become great through listening — wise and learned, not old in age but mature in wisdom. At the individual level, Indra is इन्द्रियाणाम् अधिपः, the lord of the senses, especially the mind. Without the blessing of a calm, pure, and steady mind, no spiritual or worldly pursuit can succeed. In the individual he is mind; in the totality he is Indra. Hence, mental clarity and emotional balance are invoked as the foundation of auspicious living.
स्वस्ति नः पूषा विश्ववेदाः — May Pūṣā, knower of the universe, bless us. Pūṣan is the Sun, सूर्य, who nourishes all beings. विश्ववेदाः is one who knows the entire cosmos. At the individual level, the Sun is the adhiṣṭhāna devatā of the eyes and indeed of all the senses. As Indra governs the mind, the Sun governs perception and vitality. Proper functioning of the senses and prāṇas depends upon this grace.
स्वस्ति नः तार्क्ष्यः अरिष्टनेमिः — May Tārkṣya, Garuḍa Bhagavān, destroyer of sins, diseases, and obstacles, bless us. अरिष्ट means sins, diseases, and obstacles; नेमिः is the destroyer. He removes inner and outer obstructions, ensuring unhindered movement on the path of life and dharma.
स्वस्ति नः बृहस्पतिः दधातु — May Bṛhaspati grant us auspiciousness. Bṛhaspati is the guru of the Devas at cosmic level. At the individual level, the devas are sense and motor organs along with mind being their presiding deity, and hence Bṛhaspati presides over बुद्धि, the intellect that controls the organs and mind. When buddhi is clear, guided by dharma and wisdom, life becomes complete and meaningful.
Thus, through this Śānti–mantra, four essentials are invoked — इन्द्रियाः, प्राणाः, मनः, बुद्धिः. When senses, vital energies, mind, and intellect function in harmony, supported by divine grace, life becomes whole, purposeful, and spiritually fulfilled.
ॐ शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारम् ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ १ ॥
ॐ मित्रः नः शं (भवतु)। वरुणः (नः) शं (भवतु)। अर्यमा नः शं भवतु । इन्द्रः नः शं (भवतु)। बृहस्पतिः (नः शं भवतु) । विष्णुरुरुक्रमः नः शं (भवतु) । ब्रह्मणे नमः। वायो ते नमः। त्वम् एव प्रत्यक्षम् ब्रह्म असि । (अहम्) त्वाम् एव प्रत्यक्षम् ब्रह्म वदिष्यामि । (अहम्) ऋतम् वदिष्यामि । (अहम्) सत्यम् वदिष्यामि । तत् माम् अवतु । तत् वक्तारम् अवतु। माम् अवतु । वक्तारम् अवतु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ १ ॥
Om. May Mitra grant us happiness; may Varuṇa grant us happiness; may Aryaman grant us happiness; may Indra grant us happiness; may Bṛhaspati grant us happiness; and may Viṣṇu of vast strides grant us happiness. Salutations to Brahman; salutations to Vāyu. You alone are the directly manifest Brahman; I shall indeed declare You as the directly manifest Brahman. I shall speak ṛta (that which is in accordance with śāstra, what ought to be done, and which is an object well determined in the intellect); I shall speak satya, the truth (that very same ṛta when it is being accomplished through speech and body). May That (Brahman as Vāyu) protect me; may That protect the speaker; may That protect me; may That protect the speaker. Om. Peace, peace, peace.
शम् – अव्ययम्
नः – अस्मद्, च, बहु
मित्रः – मित्र, पुं, प्र, एक
शम् – अव्ययम्
वरुणः – वरुण, पुं, प्र, एक
शम् – अव्ययम्
नः – अस्मद्, च, बहु
भवतु – भू धातुरूपम्, कर्तरि प्रयोगः, लोट् लकारः, परस्मैपदम् - भू सत्तायाम् - भ्वादिः, प्र-पु, एक
अर्यमा – अर्यमन्, पुं, प्र, एक
शम् – अव्ययम्
नः – अस्मद्, च, बहु
इन्द्रः – इन्द्र, पुं, प्र, एक
बृहस्पतिः – बृहस्पति, पुं, प्र, एक
शम् – अव्ययम्
नः – अस्मद्, च, बहु
विष्णुः – विष्णु, पुं, प्र, एक
उरुक्रमः – उरुक्रम, पुं, प्र, एक (विष्णोः विशेषणम्)
नमः – नमस्, नपुं, प्र, एक
ब्रह्मणे – ब्रह्मन्, नपुं, चतुर्थी, एक
नमः – नमस्, नपुं, प्र, एक
ते – युष्मद्, च, एक
वायो – वायु, पुं, सं, एक
त्वम् – युष्मद्, प्र, एक
एव – अव्ययम्
प्रत्यक्षम् – प्रत्यक्ष, नपुं, द्वि, एक
ब्रह्म – ब्रह्मन्, नपुं, प्र, एक
असि – अस् धातुरूपम्, कर्तरि प्रयोगः, लट् लकारः, परस्मैपदम् - अस् भुवि - अदादिः, म-पु, एक
त्वाम् – युष्मद्, द्वि, एक
एव – अव्ययम्
प्रत्यक्षम् – प्रत्यक्ष, नपुं, द्वि, एक
ब्रह्म – ब्रह्मन्, नपुं, द्वि, एक
वदिष्यामि – वद् धातुरूपम्, कर्तरि प्रयोगः, लृट् लकारः, परस्मैपदम् - वदँ व्यक्तायां वाचि - भ्वादिः, उ-पु, एक
ऋतम् – ऋत, नपुं, द्वि, एक
वदिष्यामि – वद् धातुरूपम्, कर्तरि प्रयोगः, लृट् लकारः, परस्मैपदम् - वदँ व्यक्तायां वाचि - भ्वादिः, उ-पु, एक
सत्यम् – सत्य, नपुं, द्वि, एक
वदिष्यामि – वद् धातुरूपम्, कर्तरि प्रयोगः, लृट् लकारः, परस्मैपदम् - वदँ व्यक्तायां वाचि - भ्वादिः, उ-पु, एक
तत् – तद्, नपुं, प्र, एक
माम् – अस्मद्, द्वि, एक
अवतु – अव् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - अवँ रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्चादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु| - भ्वादिः - प्र-पु, एक
तत् – तद्, नपुं, प्र, एक
वक्तारम् – वक्तृ, पुं, द्वि, एक
अवतु – अव् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - अवँ रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्चादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु| - भ्वादिः - प्र-पु, एक
अवतु – अव् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - अवँ रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्चादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु| - भ्वादिः - प्र-पु, एक
माम् – अस्मद्, द्वि, एक
अवतु – अव् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - अवँ रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्चादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु| - भ्वादिः - प्र-पु, एक
वक्तारम् – वक्तृ, पुं, द्वि, एक
Sankaracharya’s commentary:
May Mitra, who is the presiding deity identified with the activity of prāṇa and with the day, bestow happiness upon us (शं सुखं प्राणवृत्तेरह्नश्चाभिमानी देवतात्मा मित्रः), and may he indeed become ours (नः अस्माकं भवतु). Likewise, may Varuṇa, who is the presiding deity identified with the activity of apāna and with the night, (bestow) happiness (upon us) (तथैव अपानवृत्तेः रात्रेश्चाभिमानी देवतात्मा वरुणः). Aryamaa - the presiding deity in the eye and also in the sun (चक्षुषि आदित्ये चाभिमानी अर्यमा); Indra - the presiding deity in strength (बले इन्द्रः); Bṛhaspati - the presiding deity in speech and also in intellect (वाचि बुद्धौ च बृहस्पतिः); Viṣṇu, who is Urukrama, whose stride is expansive (विष्णुः उरुक्रमः विस्तीर्णक्रमः), the presiding deity of the two feet (पादयोरभिमानी). Thus, beginning with these and so on (एवमाद्या), the inner presiding deities (अध्यात्मदेवताः) — may there be happiness for us (शं नः भवतु); the expression “may it be” (भवतु इति) is to be understood as connected everywhere (सर्वत्रानुषङ्गः).
For these very deities, since they are producers of happiness (तासु हि सुखकृत्सु), the activities of hearing and retaining knowledge (विद्याश्रवणधारणोपयोगाः) will indeed take place without obstruction (अप्रतिबन्धेन भविष्यन्ति), and therefore that capacity of producing happiness (तत्सुखकृत्त्वं) is prayed for (प्रार्थ्यते) by the statement “may there be happiness for us” (शं नो भवतु इति).
This act is performed by one who desires to know Brahma-knowledge (ब्रह्मविद्याविविदिषुणा), in the context of salutation, utterance of Brahman, and ritual action (नमस्कारब्रह्मवदनक्रिये), specifically with regard to Vāyu (वायुविषये), for the purpose of pacifying obstacles to Brahma-knowledge (ब्रह्मविद्योपसर्गशान्त्यर्थे क्रियेते), because everywhere the results of actions depend upon that (सर्वत्र क्रियाफलानां तदधीनत्वात्).
Vāyu is Brahman (ब्रह्म वायुः); therefore to that Brahman (तस्मै ब्रह्मणे) I perform salutation (नमः), I perform an act of humility (प्रह्वीभावम् करोमि इति वाक्यशेषः). In the expression “salutations to you, O Vāyu, I bow to you” (नमः ते तुभ्यं हे वायो नमस्करोमि इति), Vāyu alone is being denoted, both indirectly and directly (परोक्षप्रत्यक्षाभ्यां वायुरेवाभिधीयते).
Moreover (किं च), since you yourself, being dependent upon the eye and the other sense-organs, are external, near, uninterrupted, and immediately perceptible Brahman (त्वमेव चक्षुराद्यपेक्ष्य बाह्यं संनिकृष्टमव्यवहितं प्रत्यक्षं ब्रह्मासि यस्मात्), therefore you alone I shall declare as perceptible Brahman (तस्मात् त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि). Ṛta, meaning that which is in accordance with śāstra and in accordance with what ought to be done, and which is an object well determined in the intellect (ऋतं यथाशास्त्रं यथाकर्तव्यं बुद्धौ सुपरिनिश्चितमर्थं), since it is dependent upon you (त्वदधीनत्वात्), you alone I shall declare (त्वामेव वदिष्यामि). Satya, which is that very same ṛta when it is being accomplished through speech and body (सत्यमिति स एव वाक्कायाभ्यां सम्पाद्यमानः), that too is accomplished solely under your dependence (सोऽपि त्वदधीन एव सम्पाद्यत इति), therefore you alone I shall declare as satya (त्वामेव सत्यं वदिष्यमि).
May that all-self Brahman known as Vāyu, which has thus been praised by me in this manner (तत् सर्वात्मकं वाय्वाख्यं ब्रह्म मयैवं स्तुतं सत्), protect me, the student (विद्यार्थिनं माम् अवतु), by endowing me with knowledge (विद्यासंयोजनेन). May that very same Brahman protect the speaker, the teacher also (तदेव ब्रह्म वक्तारम् आचार्यं च अवतु), by endowing him with the capacity for speaking (वक्तृत्वसामर्थ्यसंयोजनेन). The repetition “may it protect me, may it protect the speaker” (अवतु माम् अवतु वक्तारम् इति) is for the sake of reverence (पुनर्वचनम् आदरार्थम्).
The threefold utterance (त्रिर्वचनम्) of “Śāntiḥ, Śāntiḥ, Śāntiḥ” (शान्तिः शान्तिः शान्तिः इति) is for the pacification of obstacles to the attainment of knowledge (विद्याप्राप्त्युपसर्गाणां प्रशमनार्थम्), arising from the adhyātmika, adhibhautika, and adhidaivika domains (आध्यात्मिकाधिभौतिकाधिदैविकानाम्).